Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।
 
१८३
 
</ignore>
<p>
त्रादिकं कर्म करोति निर्वर्तयति यः कश्चित् ईदृशः कर्मी

स कर्म्यन्तरेभ्यो विशिष्यते इत्येवमर्थमाह — '&apos;स संन्यासी

च योगी च'&apos; इति । संन्यासः परित्यागः स यस्यास्ति स

संन्यासी च, योगी च योगः चित्तसमाधानं स यस्यास्ति

स योगी च इति एवंगुणसंपन्नः अयं मन्तव्यः ; न केवलं

निरग्निः अक्रिय एव संन्यासी योगी च इति मन्तव्यः ।

निर्गता:ताः अग्नयः कर्माङ्गभूताः यस्मात् स निरग्निः, अक्रि-

यश् अनग्निसाधना अपि अविद्यमानाः क्रियाः तपोदाना-

दिका:काः यस्य असौ अक्रियः ॥
 
</p>
<p>
ननु च निरग्नेः अक्रियस्यैव श्रुतिस्मृतियोगशास्त्रेषु संन्या-

सित्वं योगित्वं च प्रसिद्धम् । कथम् इह साने:ग्नेः सक्रियस्य

च संन्यासित्वं योगित्वं च अप्रसिद्धमुच्यते इति । नैष

दोषः, कयाचित् गुणवृत्त्या उभयस्य संपिपादयिषितत्वात् ।

तत् कथम्? कर्मफलसंकल्प संन्यासात् संन्यासित्वम्, योगा-

ङ्गत्वेन च कर्मानुष्ठानात् कर्मफलसंकल्पस्य च चित्तविक्षे-

पहेतोः परित्यागात् योगित्वं च इति गौणमुभयम् ; न पुन:
नः
मुख्यं संन्यासित्वं योगित्वं च अभिप्रेतमित्येतमर्थं दर्शयि-

तुमाह-
 
—</p>
</page>