2026-05-04 02:40:16 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१८२
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगि-
त्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च —''सर्व-
कर्माणि मनसा संन्यस्य... नैव कुर्वन्न कारयन् आस्ते '
''
'मौनी संतुष्टो येन केनचित् अनिकेतः स्थिरमति: '
'तिः'
'विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः' ' ' 'सर्वारम्भप-
रित्यागी '' इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि ;
तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः । तस्मात् मुनेः योगम्
आरुरुक्षो:षोः प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपे-
क्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण
प्रतिपद्यते इति''स संन्यासी च योगी च'' इति स्तूयते ॥
</p>
<verse>श्रीभगवानुवाच-
—
अनाश्रितः कर्मफलं कार्ययं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥
<fix> १ ॥</fix></verse>
<p merge-next="true">अनाश्रितः न आश्रितः अनाश्रितः । किम् ? कर्मफलं
कर्मणां फलं कर्मफलं यत् तदनाश्रितः, कर्मफलतृष्णारहित
इत्यर्थः । यो हि कर्मफले तृष्णावान् सः कर्मफलमाश्रितो
भवति, अयं तु तद्विपरीतः, अतः अनाश्रितः कर्मफलम् ।
एवंभूतः सन् कार्ययं कर्तव्यं नित्यं काम्यविपरीतम् अग्निहो-
</p>
</page>
<ignore>१८२
<p>श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगि-
त्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च —
कर्माणि मनसा संन्यस्य... नैव कुर्वन्न कारयन् आस्ते
'
'मौनी संतुष्टो येन केनचित् अनिकेतः स्थिरम
'
'विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः
रित्यागी
तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः । तस्मात् मुनेः योगम्
आरुरुक्
क्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण
प्रतिपद्यते इति
<verse>श्रीभगवानुवाच
अनाश्रितः कर्मफलं कार्
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥
<p merge-next="true">अनाश्रितः न आश्रितः अनाश्रितः । किम् ? कर्मफलं
कर्मणां फलं कर्मफलं यत् तदनाश्रितः, कर्मफलतृष्णारहित
इत्यर्थः । यो हि कर्मफले तृष्णावान् सः कर्मफलमाश्रितो
भवति, अयं तु तद्विपरीतः, अतः अनाश्रितः कर्मफलम् ।
एवंभूतः सन् कार्
</page>