Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।
 
१८१
 
</ignore>
<p>
नारभत इति चेत्, न ; ईश्वरे संन्यासस्य अधिकतरफलहे-

तुत्वोपपत्तेः ॥
 
</p>
<p>
मोक्षायैव इति चेत्, स्वकर्मणां कृतानां ईश्वरे संन्यासो

मोक्षायैव, न फलान्तराय योगसहितः ; योगाश्च विभ्रष्टः ;

इत्यतः तं प्रति नाशाशङ्का युक्तैव इति चेत्, न ; '&apos;एकाकी

यतचित्तात्मा निराशीरपरिग्रहः ' '&apos; &apos;ब्रह्मचारिव्रते स्थितः
&apos;
इति कर्मसंन्यासविधानात् । न च अत्र ध्यानकाले स्त्रीस-

हायत्वाशङ्का, येन एकाकित्वं विधीयते । न च गृहस्थस्य
'

&apos;
निराशीरपरिग्रहः'&apos; इत्यादिवचनम् अनुकूलम् । उभयवि-

भ्रष्टप्रश्नानुपपत्तेश्च ॥
 
</p>
<p merge-next="true">
अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं च

उक्तम्, प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं

योगित्वं चेति चेत्, न ; ध्यानयोगं प्रति बहिरङ्गस्य सतः

कर्मण:णः फलाकाङ्क्षा संन्यासस्तुतिपरत्वात् । न केवलं निरग्निः

अक्रियः एव संन्यासी योगी च । किं तर्हि ? कर्म्यपि,

कर्मफलासङ्गं संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्धयर्थम्,
'

&apos;
स संन्यासी च योगी च भवति'&apos; इति स्तूयते । न च एकेन

वाक्येन कर्मफलासङ्गसंन्यासस्तुति:तिः चतुर्थाश्रमप्रतिषेधश्च उप-

पद्यते । न च प्रसिद्धं निरग्नेः अक्रियस्य परमार्थसंन्यासिनः
 
</p>
</page>