Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१७४

श्रीमद्भगवद्गीताभाष्ये

</ignore>
<verse>
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।

छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥

</verse>

लभन्ते ब्रह्मनिर्वाणं मोक्षम् ऋषयः सम्यग्दर्शिनः संन्या-

सिनः क्षीणकल्मषाः क्षीणपापा: निर्दोषाः छिन्नद्वैधाः छिन्न-

संशयाः यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषां

भूतानां हिते आनुकूल्ये रताः अहिंसका इत्यर्थः ॥

किंच—

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।

अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्

॥<fix> २६ ॥</fix>

कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां

वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्त: करणानाम्

अभितः उभयतः जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो वर्तते

विदितात्मनां विदित: ज्ञातः आत्मा येषां ते विदितात्मानः

तेषां विदितात्मनां सम्यग्दर्शिनामित्यर्थः ॥

सम्यग्दर्शननिष्ठानां संन्यासिनां सद्यः मुक्ति: उक्ता ।

कर्मयोगश्च ईश्वरार्पितसर्वभावेन ईश्वरे ब्रह्मणि आधाय

क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षाय

इति भगवान् पदे पदे अब्रवीत्, वक्ष्यति च । अथ इदानीं

</page>