2026-05-04 02:45:35 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>पञ्चमोऽध्यायः ।
१७३
</ignore>
<p>माणे वा अनुभूते सुखहेतौ या गर्धिः तृष्णा स काम: ; क्रोधश्च
आत्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्य-
माणेषु वा यो द्वेषः सः क्रोधः ; तौ कामक्रोधौ उद्भवो यस्य
वेगस्य सः कामक्रोधोद्भवः वेगः । रोमाश्वनप्रहृष्टनेत्रवदनादि-
लिङ्गः अन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः, गात्रप्रकम्प-
प्रस्वेदसंदष्टोष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगः, तं काम-
क्रोधोद्भवं वेगं यः उत्सहते प्रसहते सोढुं प्रसहितुम्, सः
युक्त:तः योगी सुखी च इह लोके नरः ॥
</p>
<p>कथंभूतश्च ब्रह्मणि स्थितः ब्रह्म प्राप्नोति इति आह
भगवान् -
--</p>
<verse>योऽन्तः सुखोऽन्तरारामस्तथान्तज्र्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥
<fix> २४ ॥</fix></verse>
<p>यः अन्तःसुखः अन्तः आत्मनि सुखं यस्य सः अन्त:-
तः-
सुख:, तथा अन्तरेव आत्मनि आरामः आरमणं क्रीडा यस्य
स: अन्तरारामः, तथा एव अन्तः एव आत्मन्येव ज्योति:
प्रकाशो यस्य सः अन्तर्ज्योतिरेव, यः ईदृशः सः योगी
ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्नेव ब्रह्मभूत:
तः
सन् अधिगच्छति प्राप्नोति ॥
</p>
<p>किंच—
</p>
</page>
<ignore>पञ्चमोऽध्यायः ।
<p>माणे वा अनुभूते सुखहेतौ या गर्धिः तृष्णा स काम: ; क्रोधश्च
आत्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्य-
माणेषु वा यो द्वेषः सः क्रोधः ; तौ कामक्रोधौ उद्भवो यस्य
वेगस्य सः कामक्रोधोद्भवः वेगः । रोमाश्वनप्रहृष्टनेत्रवदनादि-
लिङ्गः अन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः, गात्रप्रकम्प-
प्रस्वेदसंदष्टोष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगः, तं काम-
क्रोधोद्भवं वेगं यः उत्सहते प्रसहते सोढुं प्रसहितुम्, सः
युक्
<p>कथंभूतश्च ब्रह्मणि स्थितः ब्रह्म प्राप्नोति इति आह
भगवान् -
<verse>योऽन्तः सुखोऽन्तरारामस्तथान्तज्र्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥
<p>यः अन्तःसुखः अन्तः आत्मनि सुखं यस्य सः अन्
सुख:, तथा अन्तरेव आत्मनि आरामः आरमणं क्रीडा यस्य
स: अन्तरारामः, तथा एव अन्तः एव आत्मन्येव ज्योति:
प्रकाशो यस्य सः अन्तर्ज्योतिरेव, यः ईदृशः सः योगी
ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्नेव ब्रह्मभू
सन् अधिगच्छति प्राप्नोति ॥
<p>किंच—
</page>