Proofing

This page has not been fully proofread.

१७२
 
श्रीमद्भगवद्गीताभाष्ये
 
तथा परलोकेऽपि इति गम्यते एवशब्दात् । न संसारे
सुखस्य गन्धमात्रमपि अस्ति इति बुद्धा विषयमृगतृष्णिकाया
इन्द्रियाणि निवर्तयेत् । न केवलं दुःखयोनय एव, आद्यन्त-
वन्तश्च, आदिः विषयेन्द्रियसंयोगो भोगानाम् अन्तश्च तद्वि-
योग एव; अतः आद्यन्तवन्तः अनित्याः, मध्यक्षणभावि-
त्वात् इत्यर्थः । कौन्तेय, न तेषु भोगेषु रमते बुधः विवेकी
अवगतपरमार्थतत्त्वः ; अत्यन्तमूढानामेव हि विषयेषु रतिः
दृश्यते, यथा पशुप्रभृतीनाम् ॥
 

 
अयं च श्रेयोमार्गप्रतिपक्षी कष्टतमो दोषः सर्वानर्थप्राप्ति-
हेतु: दुर्निवारश्च इति तत्परिहारे यत्नाधिक्यं कर्तव्यम्
इत्याह भगवान् —
 
शक्नोतीहैव यः सोढुं प्राक्छरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥
 
शंक्नोति उत्सहते इहैव जीवन्नेव यः सोढुं प्रसहितुं प्राक्
पूर्व शरीरविमोक्षणात् आ मरणात् इत्यर्थः । मरणसीमाकरणं
जीवतोऽवश्यंभावि हि कामक्रोधोद्भवो वेगः, अनन्तनिमित्त-
चान् हि सः इति यावत् मरणं तावत् न विस्रम्भणीय
इत्यर्थः । कामः इन्द्रियगोचरप्राप्ते इष्टे विषये श्रूयमाणे स्मर्य-