2026-05-04 02:46:58 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>पञ्चमोऽध्यायः ।
स ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते ॥ २१ ॥
१७१
</ignore>
<verse>स ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते ॥ २१ ॥</verse>
<p>बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्ते
इति स्पर्शाः शब्दादयो विषयाः तेषु बाह्यस्पर्शेषु, असक्त:
आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा विषयेषु
प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत् सुखं तत्
विन्दति इत्येतत् । स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योग:
गः
समाधिः ब्रह्मयोगः तेन ब्रह्मयोगेन युक्तः समाहितः तस्मिन्
व्यापृतः आत्मा अन्तःकरणं यस्य सः ब्रह्मयोगयुक्तात्मा,
सुखम् अक्षयंम् अश्नुते व्याप्नोति । तस्मात् बाह्यविषयप्रीतेः
क्षणिकायाः इन्द्रियाणि निवर्तयेत् आत्मनि अक्षयसुखार्थी
इत्यर्थः ॥
</p>
<p>इतश्च निवर्तयेत् —
</p>
<verse>ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२॥
</verse>
<p merge-next="true">ये हि यस्मात् संस्पर्शजाः विषयेन्द्रियसंस्पर्शेभ्यो जाता:
भोगा भुक्तयः दुःखयोनय एव ते, अविद्याकृतत्वात् । दृश्यन्ते
हि आध्यात्मिकादीनि दुःखानि तन्निमित्तान्येव । यथा इहलोके
</p>
</page>
<ignore>पञ्चमोऽध्यायः ।
स ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते ॥ २१ ॥
<verse>स ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते ॥ २१ ॥</verse>
<p>बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्ते
इति स्पर्शाः शब्दादयो विषयाः तेषु बाह्यस्पर्शेषु, असक्त:
आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा विषयेषु
प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत् सुखं तत्
विन्दति इत्येतत् । स ब्रह्मयोगयुक्तात्मा ब्रह्मणि यो