Proofing

This page has not been fully proofread.

पञ्चमोऽध्यायः ।
 
स ब्रह्मयोगयुक्तात्मा
 
सुखमक्षयमश्नुते ॥ २१ ॥
 
१७१
 
बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्ते
इति स्पर्शाः शब्दादयो विषयाः तेषु बाह्यस्पर्शेषु, असक्त:
आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा विषयेषु
प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत् सुखं तत्
विन्दति इत्येतत् । स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योग:
समाधिः ब्रह्मयोगः तेन ब्रह्मयोगेन युक्तः समाहितः तस्मिन्
व्यापृतः आत्मा अन्तःकरणं यस्य सः ब्रह्मयोगयुक्तात्मा,
सुखम् अक्षयंम् अश्नुते व्याप्नोति । तस्मात् बाह्यविषयप्रीतेः
क्षणिकायाः इन्द्रियाणि निवर्तयेत् आत्मनि अक्षयसुखार्थी
इत्यर्थः ॥
 
इतश्च निवर्तयेत् —
 
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥
 
ये हि यस्मात् संस्पर्शजाः विषयेन्द्रियसंस्पर्शेभ्यो जाता:
भोगा भुक्तयः दुःखयोनय एव ते, अविद्याकृतत्वात् । दृश्यन्ते
हि आध्यात्मिकादीनि दुःखानि तन्निमित्तान्येव । यथा इहलोके