Proofing

This page has not been fully proofread.

१७०
 
श्रीमद्भगवद्गीताभाष्ये
 
ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यत: ' ब्रह्मणि ते स्थिता: '
इति युक्तम् । कर्मविषयं च 'समासमाभ्याम्' इत्यादि । इदं
तु सर्वकर्मसंन्यासविषयं प्रस्तुतम्, 'सर्वकर्माणि मनसा'
इत्यारभ्य आध्यायपरिसमाप्तेः ॥
 
यस्मात् निर्दोषं समं ब्रह्म आत्मा, तस्मात् —
 
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरवुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ २० ॥
 
न प्रहृष्येत् प्रहर्ष न कुर्यात् प्रियम् इष्टं प्राप्य लब्ध्वा ।
न उद्विजेत् प्राप्य च अप्रियम् अनिष्टं लब्ध्वा । देहमात्रात्म-
दर्शिनां हि प्रियाप्रियप्राप्ती हर्षविषादौ कुर्वाते, न केवलात्म-
दर्शिनः, तस्य प्रियाप्रियप्राप्त्यसंभवात् । किंच - 'सर्वभूतेषु
एकः समः निर्दोषः आत्मा' इति स्थिरा निर्विचिकित्सा बु-
द्धिः यस्य सः स्थिबुद्धिः असंमूढः संमोहवर्जितश्च स्यात्
यथोक्तब्रह्मवित् ब्रह्मणि स्थितः, अकर्मकृत् सर्वकर्मसंन्यासी
इत्यर्थः
 
किंच, ब्रह्मणि स्थितः -
 
बाह्यस्पर्शेष्वसक्तात्मा
विन्दत्यात्मनि यत्सुखम् ।