Proofing

This page has been fully proofread once and needs a second look.

समे
 
<page>
<ignore>
पञ्चमोऽध्यायः ।
 
१६९
 
</ignore>
<p>
ननु अभोज्यान्नाः ते दोषवन्तः, '<quote>&apos;समासमाभ्यां विषम-

समे
पूजात:'तः&apos;</quote> इति स्मृतेः । न ते दोषवन्तः । कथम् ?
 
-
 
</p>
<verse>
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।

निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥
 
<fix> १९ ॥</fix></verse>
<p>
इह एव जीवद्भिरेव तैः समदर्शिभिः पण्डितैः जित: व-

शीकृतः सर्गः जन्म, येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे

स्थितं निश्चलीभूतं मनः अन्तःकरणम् । निर्दोषं यद्यपि

दोषवत्सु श्वपाकादिषु मूढैः तद्दोषैः दोषवत् इव विभाव्यते,

तथापि तद्दोषैः अस्पृष्टम् इति निर्दोषं दोषवर्जितं हि यस्मात् ;

नापि स्वगुणभेदभिन्नम्, निर्गुणत्वात् चैतन्यस्य । वक्ष्यति

च भगवान् इच्छादीनां क्षेत्रधर्मत्वम्, '&apos;अनादित्वान्निर्गुण-

त्वात्'&apos; इति च । नापि अन्त्या विशेषाः आत्मनो भेदका:

सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः । अतः समं

ब्रह्म एकं च । तस्मात् ब्रह्मणि एव ते स्थिताः । तस्मात् न

दोषगन्धमात्रमपि तान् स्पृशति, देहादिसंघातात्मदर्शनाभि-

मानाभावात् तेषाम् । देहादिसंघातात्मदर्शनाभिमानवद्विषयं

तु तत् सूत्रम् '&apos;समासमाभ्यां विषमसमे पूजातः'&apos; इति, पू-

जाविषयत्वेन विशेषणात् । दृश्यते हि ब्रह्मवित् षडङ्गवित्

चतुर्वेदवित् इति पूजादानादौ गुणविशेषसंबन्धः कारणम् ।
 
</p>
</page>