Proofing

This page has not been fully proofread.

१६६
 
श्रीमद्भगवद्गीताभाष्ये
 
स्वत: कर्तृत्वं कारयितृत्वं च । उक्तं हि 'अविकार्योऽय-
मुच्यते ' ' शरीरस्थोऽपि न करोति न लिप्यते' इति ।
'ध्यायतीव लेलायतीव' इति श्रुतेः ॥
 
किंच-
 
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥
 
न कर्तृत्वं स्वत: कुरु इति नापि कर्माणि रथघटप्रासादा-
दीनि ईप्सिततमानि लोकख सृजति उत्पादयति प्रभुः आ-
त्मा । नापि रथादि कृतवतः तत्फलेन संयोगं न कर्मफल-
संयोगम् । यदि किंचिदपि स्वतः न करोति न कारयति च
देही, कः तर्हि कुर्वन् कारयंश्व प्रवर्तते इति उच्यते— स्व-
 
"
 
भावस्तु स्वो भाव: स्वभाव: अविद्यालक्षणा प्रकृति: माया
प्रवर्तते 'दैवी हि' इत्यादिना वक्ष्यमाणा ॥
 
परमार्थतस्तु–
 
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
 
न आदत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् ।
न चैव आदत्ते सुकृतं भक्तैः प्रयुक्तं विभुः । किमर्थं तर्हि भक्तैः