Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
पञ्चमोऽध्यायः ।
 
१६५
 
तत्व
</ignore>
<p>तत्र
अनर्थकं विशेषणमिति । उच्यते — यस्तु अज्ञ:ञः देही

देहेन्द्रियसंघातमात्त्रात्मदर्शी स सर्वोऽपि '&apos;गेहे भूमौ आसने

वा आसे'&apos; इति मन्यते । न हि देहमात्रात्मदर्शिनः गेहे इव

देहे आसे इति प्रत्ययः संभवति । देहादिसंघातव्यतिरिक्ता-

त्मदर्शिनस्तु '&apos;देहे आसे'&apos; इति प्रत्ययः उपपद्यते । परकर्मणां

च परस्मिन् आत्मनि अविद्यया अध्यारोपितानां विद्यया

विवेकज्ञानेन मनसा संन्यास उपपद्यते । उत्पन्नविवेकज्ञानख

सर्वकर्मसंन्यासिनोऽपि गेहे इव देहे एव नवद्वारे पुरे आस-

नम् प्रारब्धफलकर्मसंस्कार शेषानुवृत्त्या देह एव विशेषविज्ञा-

नोत्पत्तेः । देहे एव आस्ते इति अस्त्येव विशेषणफलम्,

विद्वदविद्वत्प्रत्यय भेदापेक्षत्वात् ॥
 
</p>
<p>
यद्यपि कार्यकरणकर्माणि अविद्यया आत्मनि अध्यारो-

पितानि ' &apos;संन्यस्यास्ते'&apos; इत्युक्तम्, तथापि आत्मसमवायि तु

कर्तृत्वं कारयितृत्वं च स्यात् इति आशङ्कंध आह— नैव

कुर्वन् स्वयम्, न च कार्यकरणानि कारयन् क्रियासु प्रव-

र्तयन् । किं यत् तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्म-

समवायि सत् संन्यासात् न संभवति, यथा गच्छतो गतिः

गमनव्यापारपरित्यागे न स्यात् तद्वत् ? किं वा स्वत एव

आत्मनः न अस्ति इति ? अत्र उच्यते न अस्ति आत्मन:
 
नः</p>
</page>