2026-05-04 04:23:23 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१६४
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>कारः कामकारः तेन कामकारेण, कामप्रेरिततयेत्यर्थः,'मम
'मम
फलाय इदं करोमि कर्म'' इत्येवं फले सक्तः निबध्यते ।
अतः त्वं युक्तो भव इत्यर्थः ॥
</p>
<p>यस्तु परमार्थदर्शी सः—
</p>
<verse>सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
</verse>
<p>सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं
नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसा
विवेकबुद्धधा, कर्मादौ अकर्मसंदर्शनेन संत्यज्येत्यर्थः, आस्ते
तिष्ठति सुखम् । त्यक्तवाङ्मन: कायचेष्टः निरायासः प्रसन्न-
चित्तः आत्मनः अन्यत्र निवृत्त सर्वबाह्यप्रयोजनः इति
'
'सुखम् आस्ते'' इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः । क
क्व
कथम् आस्ते इति, आह- नवद्वारे पुरे । सप्त शीर्षण्यानि
आत्मन उपलब्धिद्वाराणि, अवाक् द्वे मूत्रपुरीषविसर्गार्थे, तैः
द्वारैः नवद्वारं पुरम् उच्यते शरीरम्, पुरमिव पुरम्, आत्मैक-
स्वामिकम्, तदर्थप्रयोजनैश्च इन्द्रियमनोबुद्धिविषयैः अनेक-
फलविज्ञानस्य उत्पादकैः पौरैरिव अधिष्ठितम् । तस्मिन्ं
नवद्वारे पुरे देही सर्वे कर्म संन्यस्य आस्ते ; किं विशेषणेन ?
सर्वो हि देही संन्यासी असंन्यासी वा देहे एव आस्ते;
</p>
</page>
<ignore>१६४
<p>कारः कामकारः तेन कामकारेण, कामप्रेरिततयेत्यर्थः,
फलाय इदं करोमि कर्म
अतः त्वं युक्तो भव इत्यर्थः ॥
<p>यस्तु परमार्थदर्शी सः—
<verse>सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
<p>सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं
नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसा
विवेकबुद्धधा, कर्मादौ अकर्मसंदर्शनेन संत्यज्येत्यर्थः, आस्ते
तिष्ठति सुखम् । त्यक्तवाङ्मन: कायचेष्टः निरायासः प्रसन्न-
चित्तः आत्मनः अन्यत्र निवृत्त सर्वबाह्यप्रयोजनः इति
'
'सुखम् आस्ते