2026-05-04 04:23:59 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>पञ्चमोऽध्यायः ।
१६३
</ignore>
<verse>कायेन मनसा वुद्धया केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥
<fix> ११ ॥</fix></verse>
<p>कायेन देहेन मनसा बुद्धया च केवलैः ममत्ववर्जितैः
'
'ईश्वरायैव कर्म करोमि, न मम फलाय'' इति ममत्वबुद्धिशू-
न्यैः इन्द्रियैरपि - केवलशब्द: कायादिभिरपि प्रत्येकं संब-
ध्यते— सर्वव्यापारेषु ममतावर्जनाय । योगिनः कर्मिणः कर्म
कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धये
इत्यर्थः । तस्मात् तन्त्रैव तव अधिकारः इति कुरु कर्मैव ॥
</p>
<p>यस्माच्च-
--</p>
<verse>युक्तः कर्मफलं त्यक्त्वा
शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण
फले सक्तो निबध्यते ॥ १२ ॥
</verse>
<p>युक्तः''ईश्वराय कर्माणि करोमि न मम फलाय '' इत्येवं
समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्ति मोक्षा-
ख्याम् आप्नोति नैष्ठिकों निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्ति-
सर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । यस्तु पुनः
अयुक्तः असमाहितः कामकारेण करणं कारः कामस्य
</p>
</page>
<ignore>पञ्चमोऽध्यायः ।
<verse>कायेन मनसा वुद्धया केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥
<p>कायेन देहेन मनसा बुद्धया च केवलैः ममत्ववर्जितैः
'
'ईश्वरायैव कर्म करोमि, न मम फलाय
न्यैः इन्द्रियैरपि - केवलशब्द: कायादिभिरपि प्रत्येकं संब-
ध्यते— सर्वव्यापारेषु ममतावर्जनाय । योगिनः कर्मिणः कर्म
कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धये
इत्यर्थः । तस्मात् तन्त्रैव तव अधिकारः इति कुरु कर्मैव ॥
<p>यस्माच्च-
<verse>युक्तः कर्मफलं त्यक्त्वा
शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण
फले सक्तो निबध्यते ॥ १२ ॥
<p>युक्तः