Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६२

श्रीमद्भगवद्गीताभाष्ये

</ignore>

नैव किंचित् करोमीति युक्तः समाहितः सन् मन्येत

चिन्तयेत्, तत्त्ववित् आत्मनो याथात्म्यं तत्त्वं वेत्तीति त-

त्ववित् परमार्थदर्शीत्यर्थः ॥

कदा कथं वा तत्त्वमवधारयन् मन्येत इति, उच्यते—

पश्यन्निति । मन्येत इति पूर्वेण संबन्धः । यस्य एवं तत्त्व-

विदः सर्वकार्यकरणचेष्टासु कर्मसु अकर्मैव, पश्यतः सम्यग्द-

र्शिनः तस्य सर्वकर्मसंन्यासे एव अधिकारः, कर्मण: अभाव-

दर्शनात् । न हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृ-

त्तः उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ॥

यस्तु पुनः अतत्त्ववित् प्रवृत्तश्च कर्मयोगे -

<verse>
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥

</verse>

ब्रह्मणि ईश्वरे आधाय निक्षिप्य ' 'तदर्थे कर्म करोमि

इति भृत्य इव स्वाम्यर्थेथं सर्वाणि कर्माणि मोक्षेऽपि फले स
ङ्गं
त्यक्त्वा करोति यः सर्वकर्माणि, लिप्यते न स पापेन न सं-

बध्यते पद्मपत्रमिव अम्भसा उदकेन । केवलं सत्त्वशुद्धिमा-

त्रमेव फलं तस्य कर्मणः स्यात् ॥

यस्मात्

3.

</page>