Proofing

This page has not been fully proofread.

१६२
 
श्रीमद्भगवद्गीताभाष्ये
 
नैव किंचित् करोमीति युक्तः समाहितः सन् मन्येत
चिन्तयेत्, तत्त्ववित् आत्मनो याथात्म्यं तत्त्वं वेत्तीति त-
त्ववित् परमार्थदर्शीत्यर्थः ॥
 
कदा कथं वा तत्त्वमवधारयन् मन्येत इति, उच्यते—
पश्यन्निति । मन्येत इति पूर्वेण संबन्धः । यस्य एवं तत्त्व-
विदः सर्वकार्यकरणचेष्टासु कर्मसु अकर्मैव, पश्यतः सम्यग्द-
र्शिनः तस्य सर्वकर्मसंन्यासे एव अधिकारः, कर्मण: अभाव-
दर्शनात् । न हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृ-
त्तः उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ॥
 
यस्तु पुनः अतत्त्ववित् प्रवृत्तश्च कर्मयोगे -
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥
 
ब्रह्मणि ईश्वरे आधाय निक्षिप्य ' तदर्थे कर्म करोमि
इति भृत्य इव स्वाम्यर्थे सर्वाणि कर्माणि मोक्षेऽपि फले स
त्यक्त्वा करोति यः सर्वकर्माणि, लिप्यते न स पापेन न सं-
बध्यते पद्मपत्रमिव अम्भसा उदकेन । केवलं सत्त्वशुद्धिमा-
त्रमेव फलं तस्य कर्मणः स्यात् ॥
 
यस्मात्
 
3.