Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६०
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
एवं तर्हि योगात् संन्यास एव विशिष्यते ; कथं तर्हि

इदमुक्तम् ' &apos;तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते '
&apos;
इति ? शृणु तत्र कारणम् — त्वया पृष्टं केवलं कर्मसंन्यासं

कर्मयोगं च अभिप्रेत्य तयोः अन्यतरः कः श्रेयान् इति ।

तदनुरूपं प्रतिवचनं मया उक्तं कर्मसंन्यासात् कर्मयोगः

विशिष्यते इति ज्ञानम् अनपेक्ष्य । ज्ञानापेक्षस्तु संन्यासः

सांख्यमिति मया अभिप्रेतः । परमार्थयोगश्च स एव ।

यस्तु कर्मयोगः वैदिकः स च तादर्थ्यात् योग:गः संन्यास

इति च उपचर्यते । कथं तादर्थ्यम् इति उच्यते--
-</p>
<verse>
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।

योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥
 
</verse>
<p>
संन्यासस्तु पारमार्थिकः हे महाबाहो दुःखम् आप्तुं

प्राप्तम् अयोगतः योगेन विना । योगयुक्तः वैदिकेन कर्म-

योगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तः, मुनिः

मननात् ईश्वरस्वरूपस्य मुनिः, ब्रह्म — परमात्मज्ञाननिष्ठा-

लक्षणत्वात् प्रकृतः संन्यासः ब्रह्म उच्यते, '&apos;न्यास इति

ब्रह्मा ब्रह्मा हि पर:'&apos; इति श्रुतेः — ब्रह्म परमार्थसंन्यासं

परमार्थज्ञाननिष्ठा लक्षणं नचिरेण क्षिप्रमेव अधिगच्छति

प्राप्नोति । अतः मया उक्तम् ' &apos;कर्मयोगो विशिष्यते'&apos; इति ॥
 
</p>
</page>