2026-05-03 04:20:17 by ambuda-bot
This page has not been fully proofread.
१५८
श्रीमद्भगवद्गीताभाष्ये
कस्मात् इति आह-
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥
ज्ञेयः ज्ञातव्यः स कर्मयोगी नित्यसंन्यासी इति यो न
द्वेष्टि किंचित् न काङ्क्षति दुःखसुखे तत्साधने च । एवंविधो
यः कर्मणि वर्तमानोऽपि स नित्यसंन्यासी इति ज्ञातव्य:
इत्यर्थः । निर्द्वन्द्वः द्वन्द्ववर्जितः हि यस्मात् महाबाहो सुखं
बन्धात् अनायासेन प्रमुच्यते ॥
संन्यासकर्मयोगयोः भिन्नपुरुषानुष्ठेययोः विरुद्धयोः फले-
ऽपि विरोधो युक्तः, न तु उभयोः निःश्रेयसकरत्वमेव इति
प्राप्ते इदम् उच्यते—·
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥४॥
सांख्ययोगौ पृथक् विरुद्धभिन्नफलौ बालाः प्रवदन्ति न
पण्डिताः । पण्डितास्तु ज्ञानिन एकं फलम् अविरुद्धम् इच्छ-
न्ति । कथम् ? एकमपि सांख्ययोगयोः सम्यक् आस्थितः
सम्यगनुष्ठितवान् इत्यर्थः, उभयोः विन्दते फलम् । उभयोः
तदेव हि निःश्रेयसं फलम्; अतः न फले विरोधः अस्ति ।