Proofing

This page has not been fully proofread.

पञ्चमोऽध्यायः ।
 
१५७
 
संन्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठेयविशे-
षाणां शंससि प्रशंससि कथयसि इत्येतत् । पुनः योगं च
 
-
 
तेषामेव अनुष्ठानम् अवश्यकर्तव्यं शंससि । अतः मे कतरत्
श्रेयः इति संशय:- किं कर्मानुष्ठानं श्रेयः, किं वा तद्धा-
नम् इति । प्रशस्यतरं च अनुष्ठेयम् । अतश्च यत् श्रेयः
प्रशस्यतरम् एतयोः कर्मसंन्यासकर्मयोगयोः यदनुष्ठानात्
श्रेयोवाप्तिः मम स्यादिति मन्यसे तत् एकम् अन्यतरत् सह
एकपुरुषानुष्ठेयत्वासंभवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं
तवेति ॥
 
स्वाभिप्रायम् आचक्षाणो निर्णयाय श्रीभगवानुवाच -
श्रीभगवानुवाच-
 
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥
 
संन्यासः कर्मणां परित्यागः कर्मयोगश्च तेषामनुष्ठानं
तौ उभौ अपि निःश्रेयसकरौ मोक्षं कुर्वते ज्ञानोत्पत्तिहेतुत्वेन ।
उभौ यद्यपि निःश्रेयसकरौ, तथापि तयोस्तु निःश्रेयसहेत्वोः
कर्मसंन्यासात् केवलात् कर्मयोगो विशिष्यते इति कर्मयोगं
स्तौति ।