Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१५६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
हेतुकः कर्मयोगः स्वप्रेऽपि न संभविायतुं शक्यते यस्मात्,

तस्मात् अनात्मवित्कर्तृकयोरेव संन्यासकर्मयोगयोः निःश्रेय-

सकरत्ववचनम्, तदीयाश्च कर्मसंन्यासात् पूर्वोक्तात्मवित्क-

र्तृकसर्वकर्मसंन्यासविलक्षणात् सत्येव कर्तृत्वविज्ञाने कर्मैक-

देशविषयात् यमनियमादिसहितत्वेन च दुरनुष्ठेयात् सुकर-

त्वेन च कर्मयोगस्य विशिष्टत्वाभिधानम् इत्येवं प्रतिवचन-

वाक्यार्थनिरूपणेनापि पूर्वोक्तः प्रष्टुरभिप्रायः निश्श्रीयते इति

स्थितम् ॥
 
'
</p>
<p>&apos;
ज्यायसी चेत्कर्मणस्ते'&apos; इत्यत्र ज्ञानकर्मणोः सह असं-

भवे '&apos;यच्छ्रेय एतयोः तद्रूहि'&apos; इत्येवं पृष्टोऽर्जुनेन भगवान्

सांख्यानां संन्यासिनां ज्ञानयोगेन निष्ठा पुनः कर्मयो-

गेन योगिनां निष्ठा प्रोक्तेति निर्णयं चकार । 'न च संन्य-
&apos;न च संन्य-
सनादेव केवलात् सिद्धिं समधिगच्छति'&apos; इति वचनात्

ज्ञानसहितस्य सिद्धिसाधनत्वम् इष्टम्; कर्मयोगस्य च,

विधानात् । ज्ञानरहितस्य संन्यासः श्रेयान् किं वा कर्म-

योगः श्रेयान्?'&apos; इति एतयोः विशेषबुभुत्सया-
 
--</p>
<verse>
अर्जुन उवाच-
 
"
 
--
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
 
</verse>
</page>