Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१५४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
अत्र आह— किम् आत्मविदः संन्यासकर्मयोगयोः

उभयोरपि असंभवः ? आहोस्वित् अन्यतरस्य असंभवः ?

यदा च अन्यतरस्य असंभवः, तदा किं कर्मसंन्यासस्य,

उत कर्मयोगस्य ? इति ; असंभवे कारणं च वक्तव्यम् इति ।

अत्र उच्यते — आत्मविदः निवृत्तमिथ्याज्ञानत्वात् विपर्यय-

ज्ञानमूलस्य कर्मयोगस्य असंभवः स्यात् । जन्मादिसर्ववि-

क्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन यो वेत्ति

तस्य आत्मविदः सम्यग्दर्शनेन अपास्तमिथ्याज्ञानस्य निष्क्रि-

यात्मस्वरूपावस्थानलक्षणं सर्वकर्मसंन्यासम् उक्त्वा तद्विपरी-

तस्य मिथ्याज्ञानमूलकर्तृत्वाभिमानपुरः सरस्य सक्रियात्म-

स्वरूपावस्थानरूपस्य कर्मयोगस्य इह गीताशास्त्रे तत्र तत्र

आत्मस्वरूपनिरूपणप्रदेशेषु सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यवि-

रोधात् अभावः प्रतिपाद्यते यस्मात् तस्मात् आत्मविदः

निवृत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगो न संभव-

तीति युक्तम् उक्तं स्यात् ॥
 
"
 
</p>
<p>
केषु केषु पुनः आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः

कर्माभावः प्रतिपाद्यते इति अत्र उच्यते— <quote>'अविनाशि तु

तत्'</quote> इति प्रकृत्य <quote>' य एनं वेत्ति हन्तारम् ' </quote> <quote>' वेदाविनाशिनं

नित्यम्'</quote> इत्यादौ तत्र तत्र आत्मविदः कर्माभावः उच्यते ॥
 
</p>
</page>