2026-05-04 05:19:38 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>चतुर्थोऽध्यायः ।
१४५
</ignore>
<p>न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरम् इह
विद्यते । तत् ज्ञानं स्वयमेव योगसंसिद्ध:धः योगेन कर्मयोगेन
समाधियोगेन च संसिद्धः संस्कृतः योग्यताम् आपन्नः सन्
मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्यर्थः ॥
</p>
<p>येन एकान्तेन ज्ञानप्राप्तिः भवति स उपायः उपदि-
श्यते-
--</p>
<verse>श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥
<fix> ३९ ॥</fix></verse>
<p>श्रद्धावान् श्रद्धालुः लभते ज्ञानम् । श्रद्धालुत्वेऽपि भवति
कश्चित् मन्दप्रस्थान:नः, अत आह— तत्परः, गुरूपसदनादौ
अभियुक्तः ज्ञानलब्ध्युपाये श्रद्धावान् । तत्परः अपि अजि-
तेन्द्रियः स्यात् इत्यतः आह– संयतेन्द्रियः, संयतानि
विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि स संयतेन्द्रियः ।
य एवंभूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं
लभते । प्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति,
मायावित्वादिसंभवात् ; न तु तत् श्रद्धावत्त्वादौ इत्येका-
न्तत:तः ज्ञानलब्ध्युपायः । किं पुनः ज्ञानलाभात् स्यात्
इत्युच्यते-- ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिम् उपरतिम्
</p>
<ignore>S. B. 10
</ignore>
</page>
<ignore>चतुर्थोऽध्यायः ।
<p>न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरम् इह
विद्यते । तत् ज्ञानं स्वयमेव योगसंसिद्
समाधियोगेन च संसिद्धः संस्कृतः योग्यताम् आपन्नः सन्
मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्यर्थः ॥
<p>येन एकान्तेन ज्ञानप्राप्तिः भवति स उपायः उपदि-
श्यते-
<verse>श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥
<p>श्रद्धावान् श्रद्धालुः लभते ज्ञानम् । श्रद्धालुत्वेऽपि भवति
कश्चित् मन्दप्रस्था
अभियुक्तः ज्ञानलब्ध्युपाये श्रद्धावान् । तत्परः अपि अजि-
तेन्द्रियः स्यात् इत्यतः आह– संयतेन्द्रियः, संयतानि
विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि स संयतेन्द्रियः ।
य एवंभूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं
लभते । प्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति,
मायावित्वादिसंभवात् ; न तु तत् श्रद्धावत्त्वादौ इत्येका-
न्त