Proofing

This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
१४५
 
न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरम् इह
विद्यते । तत् ज्ञानं स्वयमेव योगसंसिद्ध: योगेन कर्मयोगेन
समाधियोगेन च संसिद्धः संस्कृतः योग्यताम् आपन्नः सन्
मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्यर्थः ॥
 
येन एकान्तेन ज्ञानप्राप्तिः भवति स उपायः उपदि-
श्यते-
 
श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥
 
श्रद्धावान् श्रद्धालुः लभते ज्ञानम् । श्रद्धालुत्वेऽपि भवति
कश्चित् मन्दप्रस्थान:, अत आह— तत्परः, गुरूपसदनादौ
अभियुक्तः ज्ञानलब्ध्युपाये श्रद्धावान् । तत्परः अपि अजि-
तेन्द्रियः स्यात् इत्यतः आह– संयतेन्द्रियः, संयतानि
विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि स संयतेन्द्रियः ।
य एवंभूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं
लभते । प्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति,
मायावित्वादिसंभवात् ; न तु तत् श्रद्धावत्त्वादौ इत्येका-
न्तत: ज्ञानलब्ध्युपायः । किं पुनः ज्ञानलाभात् स्यात्
इत्युच्यते-- ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिम् उपरतिम्
 
S. B. 10