Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१४०

श्रीमद्भगवद्गीताभाष्ये

</ignore>

गतिः, तद्विपर्ययेण अधोगमनम् अपानस्य गतिः, ते प्राणा-

पानगती एते रुद्ध्वा निरुध्य प्राणायामपरायणाः प्राणाया-

मतत्पराः ; कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः ॥

किंच—

<verse>
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥

</verse>

अपरे नियताहाराः नियतः परिमितः आहारः येषां ते

नियताहाराः सन्तः प्राणान् वायुभेदान् प्राणेषु एव जुह्वति

यस्य यस्य वायोः जयः क्रियते इतरान् वायुभेदान् तस्मिन्

तस्मिन् जुह्वति, ते तत्र प्रविष्टा इव भवन्ति । सर्वेऽपि एते

यज्ञविदः यज्ञश्चक्षपितकल्मषाः यज्ञैः यथोक्तैः क्षपितः, नाशितः

कल्मषो येषां ते यज्ञक्षपितकल्मषाः ॥

एवं यथोक्तान् यज्ञान् निर्वर्त्य -

<verse>
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥

<fix> ३१ ॥</fix></verse>

यज्ञशिष्टामृतभुजः यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं च

तत् अमृतं च यज्ञशिष्टामृतं तत् भुञ्जते इति यज्ञशिष्टामृत-

भुजः । यथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथावि-

</page>