2026-05-04 05:28:28 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>चतुर्थोऽध्यायः ।
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
१३९
</ignore>
<verse>द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८॥
</verse>
<p>द्रव्ययज्ञाः तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या कुर्वन्ति
ये ते द्रव्ययज्ञाः । तपोयज्ञाः तपः यज्ञः येषां तपस्विनां
ते तपोयज्ञाः । योगयज्ञाः प्राणायामप्रत्याहारादिलक्षणो
योगो यज्ञो येषां ते योगयज्ञाः । तथा अपरे स्वाध्यायज्ञान-
यज्ञाश्च स्वाध्यायः यथाविधि ऋगाद्यभ्यासः यज्ञः येषां
ते स्वाध्याययज्ञाः । ज्ञानयज्ञा: ज्ञानं शास्त्रार्थपरिज्ञानं यज्ञः
येषां ते ज्ञानयज्ञाश्च यतयः यतनशीलाः संशितव्रताः सम्यक्
शितानि तनूकृंकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते
संशितव्रताः ॥
</p>
<verse>किंच-
--</verse>
<verse>अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्धाध्वा प्राणायामपरायणाः ॥ २९ ॥
॥
</verse>
<p merge-next="true">अपाने अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम्,
पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः । प्राणे अपानं तथा
अपरे जुह्वति, रेचकाख्यं च प्राणायामं कुर्वन्तीत्येतत् ।
प्राणापानगती मुखनासिकाभ्यां वायोः निर्गमनं प्राणस्य
</p>
</page>
<ignore>चतुर्थोऽध्यायः ।
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
<verse>द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८॥
<p>द्रव्ययज्ञाः तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या कुर्वन्ति
ये ते द्रव्ययज्ञाः । तपोयज्ञाः तपः यज्ञः येषां तपस्विनां
ते तपोयज्ञाः । योगयज्ञाः प्राणायामप्रत्याहारादिलक्षणो
योगो यज्ञो येषां ते योगयज्ञाः । तथा अपरे स्वाध्यायज्ञान-
यज्ञाश्च स्वाध्यायः यथाविधि ऋगाद्यभ्यासः यज्ञः येषां
ते स्वाध्याययज्ञाः । ज्ञानयज्ञा: ज्ञानं शास्त्रार्थपरिज्ञानं यज्ञः
येषां ते ज्ञानयज्ञाश्च यतयः यतनशीलाः संशितव्रताः सम्यक्
शितानि तनू
संशितव्रताः ॥
<verse>किंच-
<verse>अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्