2026-05-04 05:28:49 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१३८
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<verse>श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्यये इन्द्रियाग्निषु जुह्वति ॥
<fix> २६ ॥</fix></verse>
<p>श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमाग्निषु ।
प्रतीन्द्रियं संयमोंमो भिद्यते इति बहुवचनम् । संयमा एव
अग्नयः तेषु जुह्वति इन्द्रियसंयममेव कुर्वन्ति इत्यर्थः । शब्दा-
दीन् विषयान् अन्ये इन्द्रियाग्निषु इन्द्रियाण्येव अग्नयः तेषु
इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिरविरुद्धविषयग्रहणं होमं
मन्यन्ते ॥
</p>
<p>किंच—
</p>
<verse>सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्म
आत्मानसंयमयोगाग्नौ जुहुह्वति ज्ञानदीपिते ॥ २७ ॥
</verse>
<p>सर्वाणि इन्द्रियकर्माणि इन्द्रियाणां कर्माणि इन्द्रिय-
कर्माणि, तथा प्राणकर्माणि प्राणो वायुः आध्यात्मिकः
तत्कर्माणि आकुञ्चनप्रसारणादीनि तानि च अपरे आत्म-
संयमयोगाग्नौ आत्मनि संयमः आत्मसंयमः स एव यो-
गाग्निः तस्मिन् आत्मसंयमयोगाग्नौ जुह्वति प्रक्षिपन्ति ज्ञान-
दीपिते स्नेहेनेव प्रदीपे विवेकविज्ञानेन उज्ज्वलभावम् आपा-
दिते जुह्वति प्रविलापयन्ति इत्यर्थः ॥
</p>
</page>
<ignore>१३८
<verse>श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्
<p>श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमाग्निषु ।
प्रतीन्द्रियं संय
अग्नयः तेषु जुह्वति इन्द्रियसंयममेव कुर्वन्ति इत्यर्थः । शब्दा-
दीन् विषयान् अन्ये इन्द्रियाग्निषु इन्द्रियाण्येव अग्नयः तेषु
इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिरविरुद्धविषयग्रहणं होमं
मन्यन्ते ॥
<p>किंच—
<verse>सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्म
आत्मानसंयमयोगाग्नौ जु