2026-05-04 05:29:10 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>चतुर्थोऽध्यायः ।
१३७</ignore>
<verse>दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥
१३७
</verse>
<p>दैवमेव देवा इज्यन्ते येन यज्ञेन असौ दैवो यज्ञः तमेव
अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः । ब्रह्माग्नौ
'सत्यं ज्ञानमनन्तं ब्रह्म' ' विज्ञानमानन्दं ब्रह्म' 'यत् सा-
क्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तर:' इत्यादिवचनोक्तम्
अशनायादिसर्वसंसारधर्मवर्जितम् 'नेति नेति' इति निरस्ता -
शेषविशेषं ब्रह्मशब्देन उच्यते । ब्रह्म च तत् अग्निश्च सः
होमाधिकरणत्वविवक्षया ब्रह्माभिःग्निः । तस्मिन् ब्रह्माग्नौ अपरे
अन्ये ब्रह्मविदः यज्ञम् — यज्ञशब्दवाच्य आत्मा, आत्म-
नामसु यज्ञशब्दस्य पाठात् — तम् आत्मानं यज्ञं परमार्थतः
परमेव ब्रह्म सन्तं बुद्धधाध्याद्युपाधिसंयुक्तम् अध्यस्तसर्वोपाधि-
धर्मकम् आहुतिरूपं यज्ञेनैव आत्मनैव उक्तलक्षणेन उपजुह्वति
प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्म-
स्वरूपेणैव यद्दर्शनं स तस्मिन् होमः तं कुर्वन्ति ब्रह्मात्मैक-
त्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः ॥
-
</p>
<p>सोऽयं सम्यग्दर्शनलक्षण:णाः यज्ञः दैवयज्ञादिषु यज्ञेषु उप-
क्षिप्यते ' ब्रह्मार्पणम्' इत्यादिश्लोकैः प्रस्तुतः 'श्रेयान् द्रव्य-
मयाद्यज्ञात् ज्ञानयज्ञः परंतप' इत्यादिना स्तुत्यर्थम् —
</p>
</page>
<ignore>चतुर्थोऽध्यायः ।
<verse>दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥
१३७
<p>दैवमेव देवा इज्यन्ते येन यज्ञेन असौ दैवो यज्ञः तमेव
अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः । ब्रह्माग्नौ
'सत्यं ज्ञानमनन्तं ब्रह्म' ' विज्ञानमानन्दं ब्रह्म' 'यत् सा-
क्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तर:' इत्यादिवचनोक्तम्
अशनायादिसर्वसंसारधर्मवर्जितम् 'नेति नेति' इति निरस्ता
शेषविशेषं ब्रह्मशब्देन उच्यते । ब्रह्म च तत् अग्निश्च सः
होमाधिकरणत्वविवक्षया ब्रह्मा
अन्ये ब्रह्मविदः यज्ञम् — यज्ञशब्दवाच्य आत्मा, आत्म-
नामसु यज्ञशब्दस्य पाठात् — तम् आत्मानं यज्ञं परमार्थतः
परमेव ब्रह्म सन्तं बुद्
धर्मकम् आहुतिरूपं यज्ञेनैव आत्मनैव उक्तलक्षणेन उपजुह्वति
प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्म-
स्वरूपेणैव यद्दर्शनं स तस्मिन् होमः तं कुर्वन्ति ब्रह्मात्मैक-
त्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः ॥
-
<p>सोऽयं सम्यग्दर्शनलक्ष