Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१३६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
यज्ञशब्दितान् क्रियाविशेषान् उपन्यस्य 'श्रेयान् द्रव्यमया-
द्यज्ञात् ज्ञानयज्ञ:

द्यज्ञात् ज्ञानयज्ञः
' इति ज्ञानं स्तौति । अत्र च समर्थमिदं

वचनम् ' ब्रह्मार्पणम्' इत्यादि ज्ञानस्य यज्ञत्वसंपादने; अन्यथा

सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमन-

र्थकं स्यात् । ये तु अर्पणादिषु प्रतिमायां विष्णुदृष्टिवत्

ब्रह्मदृष्टिः क्षिप्यते नामादिष्विव चेति ब्रुवते न तेषां ब्रह्म-

विद्या उक्ता इह विवक्षिता स्यात्, अर्पणादिविषयत्वात्

ज्ञानस्य । न च दृष्टिसंपादनज्ञानेन मोक्षफलं प्राप्यते ।

'ब्रह्मैव तेन गन्तव्यम्' इति चोच्यते । विरुद्धं च सम्य-

ग्दर्शनम् अन्तरेण मोक्षफलं प्राप्यते इति । प्रकृतविरो-

धश्च सम्यग्दर्शनं च प्रकृतम् 'कर्मण्यकर्म यः पश्येत्'

इत्यत्र, अन्ते च सम्यग्दर्शनम्, तस्यैव उपसंहारात् ।

'श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञ:ञः ', ' ज्ञानं लब्ध्वा परां

शान्तिम्' इत्यादिना सम्यग्दर्शनस्तुतिमेव कुर्वन् उपक्षीण:

अध्याय: । तत्यः । तत्र अकस्मात् अर्पणादौ ब्रह्मदृष्टिः अप्रकरणे

प्रतिमायामिव विष्णुदृष्टिः उच्यते इति अनुपपन्नम् । तस्मात्

यथाव्याख्यातार्थ एव अयं श्लोकः ॥
 
</p>
<p>
तत्र अधुना सम्यग्दर्शनस्य यज्ञत्वं संपाद्य तत्स्तुत्यर्थम्

अन्येऽपि यज्ञा उपक्षिप्यन्ते—
 
</p>
</page>