2026-05-04 05:32:05 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१३२
1
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>शीतोष्णादिभिः हन्यमानोऽपि अविषण्णचित्तः द्वन्द्वातीत:
उच्यते । विमत्सरः विगतमत्सरः निर्वैरबुद्धिः समः तुल्यः
यदृच्छालाभस्य सिद्धौ असिद्धौ च । यः एवंभूतो यतिः
अन्नादेः शरीरस्थितिहेतो:तोः लाभालाभयोः समः हर्षविषाद-
वर्जितः कर्मादौ अकर्मादिदर्शी यथाभूतात्मदर्शननिष्ठः सन्
शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादिनिर्वयें
'नैव किंचित् करोम्यहम् गुणा गुणेषु वर्तन्ते' इत्येवं सदा
संपरिचक्षाणः आत्मन:नः कर्तृत्वाभावं पश्यन्नैव किंचित्
भिक्षाटनादिकं कर्म करोति, लोकव्यवहार सामान्यदर्शनेन
तु लौकिकैः आरोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता
भवति । स्वानुभवेन तु शास्त्रप्रमाणादिजनितेनंन अकर्तेव ।
स एवं पराध्यारोपितकर्तृत्व:वः शरीरस्थितिमात्रप्रयोजनं भिक्षा-.
टनादिकं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः
सहेतुकस्य ज्ञानाग्निना दग्धत्वात् इति उक्तानुवाद एव एषः ॥
</p>
<p merge-next="true">'त्यक्त्वा कर्मफलासङ्गम् ' इत्यनेन श्लोकेन यः प्रारब्ध-
क
र्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसंपन्नः स्यात् तदा
तस्य आत्मनः कर्तृकर्मप्रयोजनाभावदर्शिन:नः कर्मपरित्यागे
प्राप्ते कुतश्चिन्निमित्तात् तदसंभवे सति पूर्ववत् तस्मिन्
कर्मणि अभिप्रवृत्तस्य अपि नैव किंचित् करोति सः '
</p>
</page>
<ignore>१३२
1
<p>शीतोष्णादिभिः हन्यमानोऽपि अविषण्णचित्तः द्वन्द्वातीत:
उच्यते । विमत्सरः विगतमत्सरः निर्वैरबुद्धिः समः तुल्यः
यदृच्छालाभस्य सिद्धौ असिद्धौ च । यः एवंभूतो यतिः
अन्नादेः शरीरस्थितिहे
वर्जितः कर्मादौ अकर्मादिदर्शी यथाभूतात्मदर्शननिष्ठः सन्
शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादिनिर्वयें
'नैव किंचित् करोम्यहम् गुणा गुणेषु वर्तन्ते' इत्येवं सदा
संपरिचक्षाणः आत्म
भिक्षाटनादिकं कर्म करोति, लोकव्यवहार सामान्यदर्शनेन
तु लौकिकैः आरोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता
भवति । स्वानुभवेन तु शास्त्रप्रमाणादिजनिते
स एवं पराध्यारोपितकर्तृत्
टनादिकं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः
सहेतुकस्य ज्ञानाग्निना दग्धत्वात् इति उक्तानुवाद एव एषः ॥
<p merge-next="true">'त्यक्त्वा कर्मफलासङ्गम् ' इत्यनेन श्लोकेन यः प्रारब्ध-
क
र्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसंपन्नः स्यात् तदा
तस्य आत्मनः कर्तृकर्मप्रयोजनाभावदर्शि