Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
१३१
 
</ignore>
<p>
मात्रप्रयोजनं शारीरं कर्म अभिप्रेतं भवेत्, तदा दृष्टादृष्टप्रयो-

जनं कर्म विधिप्रतिषेधगम्यं शरीरवाङ्मनसनिर्वर्त्यम् अन्यत्

अकुर्वन् तैरेव शरीरादिभिः शरीरस्थितिमात्रप्रयोजनं केव-

लशब्दप्रयोगात् ' अहं करोमि ' इत्यभिमानवर्जितः शरीरादि-

चेष्टामात्रं लोकदृष्टया कुर्वन् नाप्नोति किल्बिषम् । एवंभूतस्य

पापशब्दवाच्यकिल्बिषप्राप्यसंभवात् किल्बिषं संसारं न

आप्नोति; ज्ञानाग्निदग्धसर्वकर्मत्वात् अप्रतिबन्धेन मुच्यत

एव इति पूर्वोक्तसम्यग्दर्शनफलानुवाद एव एषः । एवम्

'शारीरं केवलं कर्म' इत्यस्य अर्थस्य परिग्रहे निरवद्यं

भवति ॥
 
</p>
<p>
त्यक्तसर्वपरिग्रहस्य यते:तेः अन्नादेः शरीरस्थितिहेतोः परिग्र-

हस्य अभावात् याचनादिना शरीरस्थितौ कर्तव्यतायां प्रा-

प्तायाम् ' अयाचितमसंक्लप्तमुपपन्नं यदृच्छया' इत्यादिना

वचनेन अनुज्ञातं यतेः शरीरस्थितिहेतोः अन्नादेः प्राप्तिद्वारम्

आविष्कुर्वन् आह—
 
</p>
<verse>
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥
 
<fix> २२ ॥</fix></verse>
<p merge-next="true">
यदृच्छालाभसंतुष्टः अप्रार्थितोपनतो लाभो यदृच्छा-

लाभ:भः तेन संतुष्टः संजातालंप्रत्ययः । द्वन्द्वातीतः द्वन्द्वैः
 
</p>
</page>