2026-05-05 02:09:16 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>चतुर्थोऽध्यायः ।
१२९
</ignore>
<p>रहितः, आश्रयो नाम यत् आश्रित्य पुरुषार्थं सिसाधयिषति,
दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थः । विदुषा क्रियमाणं
कर्म परमार्थतोऽकर्मैव, तस्य निष्क्रियात्मदर्शनसंपन्नत्वात् ।
तेन एवंभूतेन स्वप्रयोजनाभावात् ससाधनं कर्म परित्यक्तव्य-
मेव इति प्राप्ते, ततः निर्गमासंभवात् लोकसंग्रह चिकीर्षया
शिष्ट विगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मणि अभिप्रवृत्तोऽपि
निष्क्रियात्मदर्शनसंपन्नत्वात् नैव किंचित् करोति सः ॥
</p>
<p>यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भात् ब्रह्मणि
सर्वान्तरे प्रत्यगात्मनि निष्क्रिये संजातात्मदर्शनः स दृष्टादृष्टे-
ष्टविषयाशीर्विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनमपश्यन्
ससाधनं कर्म संन्यस्त्रय शरीरयात्रामात्रचेष्टः यतिः ज्ञाननिष्ठो
मुच्यते इत्येतमर्थं दर्शयितुमाह-
--</p>
<verse>निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥
<fix> २१ ॥</fix></verse>
<p>निराशीः निर्गता:ताः आशिषः यस्मात् सः निराशीः, यत-
चित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्यः कार्यकरणसं-
घातः तौ उभावपि यतौ संयतौ येन सः यतचित्तात्मा,
त्यक्तं
त्यक्तसर्वपरिग्रहः त्यक्तः सर्वः परिग्रहः येन सः त्यक्तसर्व-
</p>
<ignore>S. B. 9
</ignore>
</page>
<ignore>चतुर्थोऽध्यायः ।
<p>रहितः, आश्रयो नाम यत् आश्रित्य पुरुषार्थं सिसाधयिषति,
दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थः । विदुषा क्रियमाणं
कर्म परमार्थतोऽकर्मैव, तस्य निष्क्रियात्मदर्शनसंपन्नत्वात् ।
तेन एवंभूतेन स्वप्रयोजनाभावात् ससाधनं कर्म परित्यक्तव्य-
मेव इति प्राप्ते, ततः निर्गमासंभवात् लोकसंग्रह चिकीर्षया
शिष्ट विगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मणि अभिप्रवृत्तोऽपि
निष्क्रियात्मदर्शनसंपन्नत्वात् नैव किंचित् करोति सः ॥
<p>यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भात् ब्रह्मणि
सर्वान्तरे प्रत्यगात्मनि निष्क्रिये संजातात्मदर्शनः स दृष्टादृष्टे-
ष्टविषयाशीर्विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनमपश्यन्
ससाधनं कर्म संन्यस्
मुच्यते इत्येतमर्थं दर्शयितुमाह-
<verse>निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥
<p>निराशीः निर्ग