Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
१२९
 
</ignore>
<p>
रहितः, आश्रयो नाम यत् आश्रित्य पुरुषार्थं सिसाधयिषति,

दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थः । विदुषा क्रियमाणं

कर्म परमार्थतोऽकर्मैव, तस्य निष्क्रियात्मदर्शनसंपन्नत्वात् ।

तेन एवंभूतेन स्वप्रयोजनाभावात् ससाधनं कर्म परित्यक्तव्य-

मेव इति प्राप्ते, ततः निर्गमासंभवात् लोकसंग्रह चिकीर्षया

शिष्ट विगर्हणापरिजिहीर्षया वा पूर्ववत् कर्मणि अभिप्रवृत्तोऽपि

निष्क्रियात्मदर्शनसंपन्नत्वात् नैव किंचित् करोति सः ॥
 
</p>
<p>
यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भात् ब्रह्मणि

सर्वान्तरे प्रत्यगात्मनि निष्क्रिये संजातात्मदर्शनः स दृष्टादृष्टे-

ष्टविषयाशीर्विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनमपश्यन्

ससाधनं कर्म संन्यस्त्र शरीरयात्रामात्रचेष्टः यतिः ज्ञाननिष्ठो

मुच्यते इत्येतमर्थं दर्शयितुमाह-
--</p>
<verse>
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥
 
<fix> २१ ॥</fix></verse>
<p>
निराशीः निर्गता:ताः आशिषः यस्मात् सः निराशीः, यत-

चित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्यः कार्यकरणसं-

घातः तौ उभावपि यतौ संयतौ येन सः यतचित्तात्मा,
त्यक्तं

त्यक्त
सर्वपरिग्रहः त्यक्तः सर्वः परिग्रहः येन सः त्यक्तसर्व-
 
</p>
<ignore>
S. B. 9
 
</ignore>
</page>