2026-05-05 02:10:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>चतुर्थोऽध्यायः ।
१२७
</ignore>
<p>वायभावोत्पत्तिः, 'नासतो विद्यते भाव:वः' इति वचनात्
'कथं असत: सज्जायेत' इति च दर्शितम् असत: सज्जन्म-
प्रतिषेधात् । असतः सदुत्पत्तिं ब्रुवता असदेव सद्भवेत्, स-
श्चापि असत् भवेत् इत्युक्तं स्यात् । तच्च अयुक्तम्, सर्व-
प्रमाणविरोधात् । न च निष्फलं विदध्यात् कर्म शास्त्रम्,
दुःखस्वरूपत्वात्, दुःखस्य च बुद्धिपूर्वकत्तया कार्यत्वानुपपत्तेः ।
तदकरणे च नरकपाताभ्युपगमात् अनर्थायैव उभयथापि
करणे च अकरणे च शास्त्रं निष्फलं कल्पितं स्यात् ।
स्वाभ्युपगमविरोधश्च 'नित्यं निष्फलं कर्म' इति अभ्युप-
गम्य 'मोक्षफलाय' इति ब्रुवतः । तस्मात् यथाश्रुत एवार्थः
'कर्मण्यकर्मय:यः' इत्यादेः । तथा च व्याख्यातः अस्माभिः
श्लोकः ॥
</p>
<p>तदेतत् कर्मणि अकर्मदर्शनं स्तूयते-
--</p>
<verse>यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥
<fix> १९ ॥</fix></verse>
<p merge-next="true">यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भाः सर्वाणि
कर्माणि, समारभ्यन्ते इति समारम्भाः, कामसंकल्पवर्जिताः
कामैः तत्कारणैश्च संकल्पैः वर्जिताः मुधैव चेष्टामात्रा अनु-
</p>
</page>
<ignore>चतुर्थोऽध्यायः ।
<p>वायभावोत्पत्तिः, 'नासतो विद्यते भा
'कथं असत: सज्जायेत' इति च दर्शितम् असत: सज्जन्म-
प्रतिषेधात् । असतः सदुत्पत्तिं ब्रुवता असदेव सद्भवेत्, स-
श्चापि असत् भवेत् इत्युक्तं स्यात् । तच्च अयुक्तम्, सर्व-
प्रमाणविरोधात् । न च निष्फलं विदध्यात् कर्म शास्त्रम्,
दुःखस्वरूपत्वात्, दुःखस्य च बुद्धिपूर्वक
तदकरणे च नरकपाताभ्युपगमात् अनर्थायैव उभयथापि
करणे च अकरणे च शास्त्रं निष्फलं कल्पितं स्यात् ।
स्वाभ्युपगमविरोधश्च 'नित्यं निष्फलं कर्म' इति अभ्युप-
गम्य 'मोक्षफलाय' इति ब्रुवतः । तस्मात् यथाश्रुत एवार्थः
'कर्मण्यकर्म