Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
१२५
 
</ignore>
<p>
अयं श्लोकः अन्यथा व्याख्यातः कैश्चित् । कथम् ? नि-

त्यानां किल कर्मणाम् ईश्वरार्थे अनुष्ठीयमानानां तत्फलाभा-

वात् अकर्माणि तानि उच्यन्ते गौण्या वृत्त्या । तेषां चं

अकरणम् अकर्म; तच्च प्रत्यवायफलत्वात् कर्म उच्यते

गौण्यैव वृत्त्या । तत्र नित्ये कर्मणि अकर्म य:यः पश्ये
त्
फलाभावात्; यथा धेनुरपि गौः अगौः इत्युच्यते क्षीराख्यं

फलं न प्रयच्छति इति, तद्वत् । तथा नित्याकरणे तु अक-

र्मणि च कर्म य:यः पश्येत् नरकादिप्रत्यवायफलं प्रयच्छति

इति ॥
 
</p>
<p merge-next="true">
नैतत् युक्तं व्याख्यानम् । एवं ज्ञानात् अशुभात् मोक्षा-

नुपपत्तेः 'यज्ज्ञात्वा मोक्ष्यसेऽशुभात्' इति भगवता उक्तं

वचनं बाध्येत । कथम् ? नित्यानामनुष्ठानात् अशुभात् स्यात्

नाम मोक्षणम्, न तु तेषां फलाभावज्ञानात् । न हि नित्यानां

फलाभावज्ञानम् अशुभमुक्तिफलत्वेन चोदितम्, नित्यकर्मज्ञानं

वा । न च भगवतैवेहोक्तम् । एतेन अकर्मणि कर्मदर्शनं

प्रत्युक्तम् । न हि अकर्मणि 'कर्म' इति दर्शनं कर्तव्यतया इह

चोद्यते, नित्यस्य तु कर्तव्यतामात्रम् । न च 'अकरणात्

नित्यस्य प्रत्यवायो भवति' इति विज्ञानात् किंचित् फलं

स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितम् । नापि 'कर्म
 
</p>
</page>