Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
१२३
 
</ignore>
<p>
तद्विपर्ययग्रहणनिवृत्त्यर्थं भगवतो वचनम् 'कर्मण्यकर्म यः '

इत्यादि । न च अत्र कर्माधिकरणमकर्म अस्ति, कुण्डे बद-

राणीव । नापि अकर्माधिकरणं कर्मास्ति, कर्माभावत्वादक-

र्मणः । अत:तः विपरीतगृहीते एव कर्माकर्मणी लौकिकैः,

यथा मृगतृष्णिकायामुदकं शुक्तिकायां वा रजतम् । ननु

कर्म कर्मैव सर्वेषां न क्वचित् व्यभिचरति — तत् न,

नौस्थस्य नावि गच्छन्त्यां तटस्थेषु अगतिषु नगेषु प्रतिकूल-

गतिदर्शनात्, दूरेषु चक्षुषा असंनिकृष्टेषु गच्छत्सु गत्यभा-

वदर्शनात् एवम् इहापि अकर्मणि कर्मदर्शनं कर्मणि च अ-

कर्मदर्शनं विपरीतदर्शनं येन तन्निराकरणार्थमुच्यते ' कर्म-

ण्यकर्म य:यः पश्येत्' इत्यादि ॥
 
</p>
<p merge-next="true">
तदेतत् उक्तप्रतिवचनमपि असकृत् अत्यन्तविपरीतदर्शन-

भाविततया मोमुह्यमानो लोकः श्रुतमपि असकृत् तत्त्वं

विस्मृत्य विस्मृत्य मिथ्याप्रसङ्गम् अवतार्यावतार्य चोदयति

इति पुनः पुनः उत्तरमाह भगवान्, दुर्विज्ञेयत्वं च आलक्ष्य

वस्तुनः । 'अव्यक्तोऽयमचिन्त्योऽयम्' 'न जायते म्रियते '

इत्यादिना आत्मनि कर्माभावः श्रुतिस्मृतिन्यायप्रसिद्धः उक्तः

वक्ष्यमाणश्च । तस्मिन् आत्मनि कर्माभावे अकर्मणि कर्मवि-

परीतदर्शनम् अत्यन्तनिरूढम् ; यतः, 'किं कर्म किमकर्मेति
 
</p>
</page>