Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
१२१
 
</ignore>
<p>
किं कर्म किं च अकर्म इति कवयः मेधाविनः अपि अत्र

अस्मिन् कर्मादिविषये मोहिताः मोहं गताः । तत् अतः ते

तुभ्यम् अहं कर्म अकर्म च प्रवक्ष्यामि, यत् ज्ञात्वा विदित्वा

कर्मादि मोक्ष्यसे अशुभात् संसारात् ॥
 
</p>
<p>
न चैतत्त्वया मन्तव्यम् — कर्म नाम देहादिचेष्टा लोकप्र-

सिद्धम्, अकर्म नाम तदक्रिया तूष्णीमासनम् किं तत्र

बोद्धव्यम् ? इति । कस्मात् उच्यते—
 
</p>
<verse>
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७॥
 
</verse>
<p>
कर्मणः शास्त्रविहितस्य हि यस्मात् अपि अस्ति बोद्ध-

व्यम्, बोद्धव्यं च अस्त्येव विकर्मणः प्रतिषिद्धस्य, तथा

अकर्मणश्च तूष्णींभावस्य बोद्धव्यम् अस्ति इति त्रिष्वप्यध्या-

हारः कर्तव्यः । यस्मात् गहना विषमा दुर्ज्ञेया -- कर्मणः

इति उपलक्षणार्थं कर्मादीनाम् — कर्माकर्मविकर्मणां गतिः

याथात्म्यं तत्त्वम् इत्यर्थः ॥
 
</p>
<p>
किं पुनस्तत्त्वं कर्मादैःदीनां यत् बोद्धव्यं वक्ष्यामि इति प्रति-

ज्ञातम् ? उच्यते—
 
</p>
</page>