Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
११९
 
</ignore>
<p>
नस्य क्षत्रियस्य शौर्यतेजः प्रभृतीनि कर्माणि, तमउपसर्ज-

नरजः प्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि, रजउपसर्जन-

तमः प्रधानस्य शूद्रस्य शुश्रूषैव कर्म इत्येवं गुणकर्मविभागशः

चातुर्वर्ण्य मया सृष्टम् इत्यर्थः । तच्च इदं चातुर्वर्ण्यै न
यं न
अन्येषु लोकेषु, अतः मानुषे लोके इति विशेषणम् । हन्त

तर्हि चातुर्वर्ण्यस्य सर्गादेः कर्मण:णः कर्तृत्वात् तत्फलेन युज्यसे,

अतः न त्वं नित्यमुक्तः नित्येश्वरश्च इति ? उच्यते यद्यपि

मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां परमा-

र्थत:तः विद्धि अकर्तारम् । अत एव अव्ययम् असंसारिणं च

मां विद्धि ॥
 
</p>
<p>
येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतः तेषाम्

अकर्ता एवाहम्, यतः—
 
</p>
<verse>
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥
 
<fix> १४ ॥</fix></verse>
<p merge-next="true">
न मां तानि कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेन, अहं-

काराभावात् । न च तेषां कर्मणां फलेषु मे मम स्पृहा

तृष्णा । येषां तु संसारिणाम् ' अहं कर्ता' इत्यभिमानः

कर्मसु, स्पृहा तत्फलेषु च तान् कर्माणि लिम्पन्ति इति

युक्तम्, तदभावात् न मां कर्माणि लिम्पन्ति । इति एवं यः
 
</p>
</page>