Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
११८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
याजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मात् मानुषे लोके,

मनुष्यलोके हि शास्त्राधिकार:रः'&apos;क्षिप्रं हि मानुषे लोके '
&apos;
इति विशेषणात् अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान् ।

मानुषे लोके वर्णाश्रमादिकर्माणि इति विशेष:षः, तेषां च

वर्णाश्रमाद्यधिकारिकर्मणां फलसिद्धिः क्षिप्रं भवति । कर्मजा

कर्मणो जाता ॥
 
</p>
<p>
मानुषे एव लोके वर्णाश्रमादिकर्माधिकारः, न अन्येषु

लोकेषु इति नियम:मः किंनिमित्त इति ? अथवा वर्णाश्रमादि-

प्रविभागोपेताः मनुष्याः मम वर्त्म अनुवर्तन्ते सर्वशः

इत्युक्तम् । कस्मात्पुनः कारणात् नियमेन तवैव वर्त्म अनु-

वर्तन्ते न अन्यस्य इति ? उच्यते--
 
</p>
<verse>
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।

तस्य कर्तारमपि मां विद्धधध्यकर्तारमव्ययम् ॥
 
<fix> १३ ॥</fix></verse>
<p merge-next="true">
चत्वार एव वर्णाः चातुर्वर्ण्यं मया ईश्वरेण सृष्टम् उत्पा-

दितम्, ' &apos;ब्राह्मणोऽस्य मुखमासीत्'&apos; इत्यादिश्रुतेः । गुणक-

र्
मविभागशः गुणविभागशः कर्मविभागशश्च । गुणाः सत्त्व-

रजस्तमांसि । तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य
'

&apos;
शमो दमस्तप:'पः&apos; इत्यादीनि कर्माणि सत्त्वोपसर्जनरजः प्रधा-
 

 
</p>
</page>