Proofing

This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
११७
 
र्थिनः तान् फलप्रदानेन, ये यथोक्तकारिणस्तु अफलार्थिनः
मुमुक्षवश्च तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिन: मुमु-
क्षवश्च तान् मोक्षप्रदानेन, तथा आर्तान् आर्तिहरणेन
इत्येवं यथा प्रपद्यन्ते ये तान् तथैव भजामि इत्यर्थः । न पुनः
रागद्वेषनिमित्तं मोहनिमित्तं वा कंचित् भजामि । सर्वथापि
सर्वावस्थस्य मम ईश्वरस्य वर्त्म मार्गम् अनुवर्तन्ते मनुष्याः-
यत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रयतन्ते ते
मनुष्या अत्र उच्यन्ते - हे पार्थ सर्वशः सर्वप्रकारैः ॥
 
यदि तव ईश्वरस्य रागादिदोषाभावात् सर्वप्राणिषु अनु-
जिघृक्षायां तुल्यायां सर्वफलप्रदानसमर्थे च त्वयि सति
'वासुदेवः सर्वम्' इति ज्ञानेंनैव मुमुक्षवः सन्तः कस्मात्
त्वामेव सर्वे न प्रतिपद्यन्ते इति ? शृणु तत्र कारणम्-
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥
 
काङ्क्षन्त: अभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थ-
यन्तः यजन्ते इह अस्मिन् लोके देवता: इन्द्राग्नयाद्या: ; 'अथ
योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद
यथा पशुरेवं स देवानाम्' इति श्रुतेः । तेषां हि भिन्नदेवता-