Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
११६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥
 
</verse>
<p text="C">
वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च वीताः विगताः

येभ्यः ते वीतरागभयक्रोधाः मन्मयाः ब्रह्मविदः ईश्वराभेद-

दर्शिनः मामेव च परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठा

इत्यर्थः । बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमा-

त्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः

मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताः । इतरतपो-

निरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गम् '&apos;ज्ञानतपसा'&apos; इति विशे-

षणम् ॥
 
</p>
<p>
तव तर्हि रागद्वेषौ स्तः, येन केभ्यश्विचिदेव आत्मभावं

प्रयच्छसि न सर्वेभ्यः इत्युच्यते--
 
-</p>
<verse>
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
 
</verse>
<p>
ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां

प्रपद्यन्ते तान् तथैव तत्फलदानेन भजामि अनुगृहामि अहम्

इत्येतत् । तेषां मोक्षं प्रति अनर्थित्वात् । न हि एकस्य
 
1
 

मुमुक्षुत्वं फलार्थित्वं च युगपत् संभवति । अतः ये फला-
 
</p>
</page>