Proofing

This page has not been fully proofread.

११६
 
श्रीमद्भगवद्गीताभाष्ये
 
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥
 
वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च वीताः विगताः
येभ्यः ते वीतरागभयक्रोधाः मन्मयाः ब्रह्मविदः ईश्वराभेद-
दर्शिनः मामेव च परमेश्वरम् उपाश्रिताः केवलज्ञाननिष्ठा
इत्यर्थः । बहवः अनेके ज्ञानतपसा ज्ञानमेव च परमा-
त्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तः
मद्भावम् ईश्वरभावं मोक्षम् आगताः समनुप्राप्ताः । इतरतपो-
निरपेक्षज्ञाननिष्ठा इत्यस्य लिङ्गम् 'ज्ञानतपसा' इति विशे-
षणम् ॥
 
तव तर्हि रागद्वेषौ स्तः, येन केभ्यश्विदेव आत्मभावं
प्रयच्छसि न सर्वेभ्यः इत्युच्यते--
 
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥
 
ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां
प्रपद्यन्ते तान् तथैव तत्फलदानेन भजामि अनुगृहामि अहम्
इत्येतत् । तेषां मोक्षं प्रति अनर्थित्वात् । न हि एकस्य
 
1
 
मुमुक्षुत्वं फलार्थित्वं च युगपत् संभवति । अतः ये फला-