Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।

११५

</ignore>

प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति भारत, अभ्युत्था-

नम् उद्भवः अधर्मस्य, तदा तदा आत्मानं सृजामि अहं

मायया ॥

किमर्थम् ? --

<verse>
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८ ॥
</verse>

परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानाम् , विना-

शाय च दुष्कृतां पापकारिणाम् , किंच धर्मसंस्थापनार्थाय

धर्मस्य सम्यक् स्थापनं तदर्थं संभवामि युगे युगे प्रतियुगम् ॥

तत् —

<verse>
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥

<fix> ९

</fix></verse>

जन्म मायारूपं कर्म च साधूनां परित्राणादि मे मम

दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यः वेत्ति तत्त्वत:
तः
तत्
त्वेन यथावत् त्यक्त्वा देहम् इमं पुनर्जन्म पुनरुत्पत्तिं न

एति न प्राप्नोति । माम् एति आगच्छति सः मुच्यते हे

अर्जुन ॥

नैष मोक्षमार्ग इदानीं प्रवृत्तः ; किं तर्हि ? पूर्वमपि —

</page>