Proofing

This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
११५
 
प्राणिनामभ्युदयनिःश्रेयससाधनस्य भवति भारत, अभ्युत्था-
 
नम् उद्भवः अधर्मस्य, तदा तदा आत्मानं सृजामि अहं
 
मायया ॥
 
किमर्थम् ? --
 
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८ ॥
परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानाम्, विना-
शाय च दुष्कृतां पापकारिणाम्, किंच धर्मसंस्थापनार्थाय
धर्मस्य सम्यक् स्थापनं तदर्थ संभवामि युगे युगे प्रतियुगम् ॥
 
तत् —
 
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥
 

 
जन्म मायारूपं कर्म च साधूनां परित्राणादि मे मम
दिव्यम् अप्राकृतम् ऐश्वरम् एवं यथोक्तं यः वेत्ति तत्त्वत:
तत्वेन यथावत् त्यक्त्वा देहम् इमं पुनर्जन्म पुनरुत्पत्तिं न
एति न प्राप्नोति । माम् एति आगच्छति सः मुच्यते हे
अर्जुन ॥
 
नैष मोक्षमार्ग इदानीं प्रवृत्तः ; किं तर्हि ? पूर्वमपि —