Proofing

This page has not been fully proofread.

११४
 
श्रीमद्भगवद्गीताभाष्ये
 
कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावेऽपि जन्म
 
इति, उच्यते-
 
अजोऽपि सन्नव्ययात्मा
भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय
 
संभवाम्यात्ममायया ॥ ६ ॥
 
अजोऽपि जन्मरहितोऽपि सन्, तथा अव्ययात्मा
अक्षीणज्ञानशक्तिस्वभावोऽपि सन्, तथा भूतानां ब्रह्मादिस्त-
म्बपर्यन्तानांम् ईश्वरः ईशनशीलोऽपि सन्, प्रकृतिं स्वां मम
वैष्णवीं मायां त्रिगुणात्मिकाम्, यस्या वशे सर्वे जगत्
'वर्तते, यया मोहितं सत् स्वमात्मानं वासुदेवं न जानाति,
तां प्रकृतिं स्वाम अधिष्ठाय वशीकृत्य संभवामि देहवानिव
भवामि जात इव आत्ममायया आत्मन: मायया, न परमा-
र्थतो लोकवत् ॥
 
तच्च जन्म कदां किमर्थे च इत्युच्यते--
 
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥
यदा यदा हि धर्मस्य ग्लानिः हानिः वर्णाश्रमादिलक्षणस्य