Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
११३</ignore>
<p>
इति परिहारार्थं चोद्यमिव कुर्वन् अर्जुन उवाच-
 
—</p>
<verse>
अर्जुन उवाच-
 

अपरं भवतो जन्म परं जन्म विवस्वतः ।

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥
 
११३
 
४ ॥</verse>
<p>
अपरम् अर्वाक् वसुदेवगृहे भवतो जन्म । परं पूर्वं सर्गादौ

जन्म उत्पत्तिः विवस्वतः आदित्यस्य । तत् कथम् एतत्

विजानीयाम् अविरुद्धार्थतया, यः त्वमेव आदौ प्रोक्तवान्

इमं योगं स एव इदानीं मह्यं प्रोक्तवानसि इति ॥
 
४ ॥</p>
<p>
या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणाम् , तां परिहर<error>न्ं
</error><fix>न्</fix>
श्रीभगवानुवाच, यदर्थो ह्यर्जुनस्य प्रश्न:-
 
नः —</p>
<verse>
श्रीभगवानुवाच-
 

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥ ५ ॥
 
</verse>
<p>
बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव

च हे अर्जुन । तानि अहं वेद जाने सर्वाणि न त्वं वेत्थ न

जानीषे, धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात् । अहं पुनः

नित्यशुद्धबुद्धमुक्तस्वभावत्वात् अनावरणज्ञानशक्तिरिति वेद

अहं हे परंतप ॥
 
8
</p>
<ignore>S
. B. 8
 
</ignore>
</page>