Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
११२

श्रीमद्भगवद्गीताभाष्ये

</ignore>

मोक्षाख्यं फलं व्येति । स च विवस्वान् मनवे प्राह । मनुः

इक्ष्वाकवे स्वपुत्राय आदिराजाय अब्रवीत् ॥

<verse>
एवं परम्पराप्राप्तमिमं राजर्षयोंयो विदुः ।

स कालेनेह महता योगो नष्टः परंतप ॥ २ ॥

</verse>

एवं क्षत्रियपरम्पराप्राप्तम् इमं राजर्षयः राजानश्च ते

ऋषयश्च राजर्षयः विदुः इमं योगम् । स योगः कालेन इह

महता दीर्घेण नष्ट:टः विच्छिन्न संप्रदायः संवृत्तः । हे परंतप,

आत्मनः विपक्षभूताः परा इति उच्यन्ते, तान् शौर्यतेजो-

गभस्तिभिः भानुरिव तापयतीति परंतपः शत्रुतापन इत्यर्थः ॥

दुर्बलानजितेन्द्रियान् प्राप्य नष्टं योगमिममुपलभ्य लोकं

च अपुरुषार्थसंबन्धिनम् -

<verse>
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥

<fix> ३ ॥</fix></verse>

स एव अयं मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः

पुरातनः भक्त:तः असि मे सखांखा च असि इति । रहस्यं हि

यस्मात् एतत् उत्तमं योगः ज्ञानम् इत्यर्थः ॥

भगवता विप्रतिषिद्धमुक्तमिति मा भूत् कस्यचित् बुद्धिः

</page>