2026-05-03 04:19:59 by ambuda-bot
This page has not been fully proofread.
११२
श्रीमद्भगवद्गीताभाष्ये
मोक्षाख्यं फलं व्येति । स च विवस्वान् मनवे प्राह । मनुः
इक्ष्वाकवे स्वपुत्राय आदिराजाय अब्रवीत् ॥
एवं परम्पराप्राप्तमिमं राजर्षयों विदुः ।
स कालेनेह महता योगो नष्टः परंतप ॥ २ ॥
एवं क्षत्रियपरम्पराप्राप्तम् इमं राजर्षयः राजानश्च ते
ऋषयश्च राजर्षयः विदुः इमं योगम् । स योगः कालेन इह
महता दीर्घेण नष्ट: विच्छिन्न संप्रदायः संवृत्तः । हे परंतप,
आत्मनः विपक्षभूताः परा इति उच्यन्ते, तान् शौर्यतेजो-
गभस्तिभिः भानुरिव तापयतीति परंतपः शत्रुतापन इत्यर्थः ॥
दुर्बलानजितेन्द्रियान् प्राप्य नष्टं योगमिममुपलभ्य लोकं
च अपुरुषार्थसंबन्धिनम् -
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥
स एव अयं मया ते तुभ्यम् अद्य इदानीं योगः प्रोक्तः
पुरातनः भक्त: असि मे सखां च असि इति । रहस्यं हि
यस्मात् एतत् उत्तमं योगः ज्ञानम् इत्यर्थः ॥
भगवता विप्रतिषिद्धमुक्तमिति मा भूत् कखचित् बुद्धिः