Proofing

This page has been fully proofread once and needs a second look.

<page>
<heading>
चतुर्थोऽध्यायः ॥
 
यो
</heading>
<p>यो
ऽयं योगः अध्याय॒द्वयेनोक्तः ज्ञाननिष्ठालक्षणः,
 

ससंन्यासः कर्मयोगोपायः, यस्मिन् वेदार्थः

परिसमाप्तः, प्रवृत्तिलक्षणः निवृत्तिलक्षणश्च,

गीतासु च सर्वासु अयमेव योगो विवक्षितो

भगवता । अतः परिसमाप्तं वेदार्थेथं मन्वानः
 

तं वंशकथनेन स्तौति श्रीभगवान् —
 
</p>
<verse>
श्रीभगवानुवाच-
 

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ १ ॥
 
</verse>
<p merge-next="true">
इमम् अध्यायद्वयेनोक्तं योगं विवस्वते आदित्याय सर्गादौ

प्रोक्तवान् अहं जगत्परिपालयितॄणां क्षत्रियाणां बलाधानाय

तेन योगबलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुम् ।

ब्रह्मक्षत्रे परिपालिते जगत् परिपालयितुमलम् । अव्ययम्

अव्ययफलत्वात् । न ह्यस्य योगस्य सम्यग्दर्शननिष्ठालक्षणस्य
 
</p>
</page>