Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१०८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
एवं बुद्धेः परम् आत्मानं बुद्धाध्वा ज्ञात्वा संस्तभ्य सम्यक्

स्तम्भनं कृत्वा आत्मानं स्वेनैव आत्मना संस्कृतेन मनसा

सम्यक् समाधायेत्यर्थः । जहि एनं शत्रुं हे महाबाहो काम-

रूपं दुरासदं दुःखेन आसद:दः आसादनं प्राप्तिः यस्य तं

दुरासदं दुर्विज्ञेयानेकविशेषमिति ॥
 
"
 
</p>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-

शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये

तृतीयोऽध्यायः ॥
 
</trailer>
</page>