2026-05-03 19:52:43 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>तृतीयोऽध्यायः ।
१०७
</ignore>
<verse>इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परावुडियों वुबुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥
</verse>
<p>इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं
च अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृ-
ष्टानि आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः संकल्प-
विकल्पात्मकम् । तथा मनसः तु परा बुद्धिः निश्चयात्मिका ।
तथा यः सर्वदृश्येभ्यः बुद्धध्यन्तेभ्यः आभ्यन्तरः, यं देहि-
नम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण
मोहयति इत्युक्तम् । बुद्धेः परतस्तु सः सः बुद्धेः द्रष्टा
पर आत्मा ॥
</p>
<p>ततः किम्--
—</p>
<verse>एवं बुद्धेः परं बुद्धाध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
</verse>
<trailer>इति श्रीमहाभारते शतसाहस्रर्यां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम
तृतीयोऽध्यायः ॥
</trailer>
</page>
<ignore>तृतीयोऽध्यायः ।
<verse>इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा
<p>इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं
च अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृ-
ष्टानि आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः संकल्प-
विकल्पात्मकम् । तथा मनसः तु परा बुद्धिः निश्चयात्मिका ।
तथा यः सर्वदृश्येभ्यः बुद्
नम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण
मोहयति इत्युक्तम् । बुद्धेः परतस्तु सः सः बुद्धेः द्रष्टा
पर आत्मा ॥
<p>ततः किम्
<verse>एवं बुद्धेः परं बुद्
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
<trailer>इति श्रीमहाभारते शतसाहस्
योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम
तृतीयोऽध्यायः ॥
</page>