2026-05-03 04:19:58 by ambuda-bot
This page has not been fully proofread.
तृतीयोऽध्यायः ।
१०७
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा वुडियों वुद्धेः परतस्तु सः ॥ ४२ ॥
इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं
च अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृ-
ष्टानि आहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः संकल्प-
विकल्पात्मकम् । तथा मनसः तु परा बुद्धिः निश्चयात्मिका ।
तथा यः सर्वदृश्येभ्यः बुद्धयन्तेभ्यः आभ्यन्तरः, यं देहि-
नम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण
मोहयति इत्युक्तम् । बुद्धेः परतस्तु सः सः बुद्धेः द्रष्टा
पर आत्मा ॥
ततः किम्--
एवं बुद्धेः परं बुद्धा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥४३॥
इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम
तृतीयोऽध्यायः ॥